वि॒षू॒वृदिन्द्रो॒ अम᳚तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व᳚ ईशते ।
तस्येदि॒मे प्र᳚व॒णे स॒प्त सिन्ध᳚वो॒ वयो᳚ वर्धन्ति वृष॒भस्य᳚ शु॒ष्मिणः᳚ ॥
तस्येदि॒मे प्र᳚व॒णे स॒प्त सिन्ध᳚वो॒ वयो᳚ वर्धन्ति वृष॒भस्य᳚ शु॒ष्मिणः᳚ ॥
पदपाठः (Word-by-word)
वि॒षु॒॑वृत् । इन्द्रः᳚ । अम᳚तेः । उ॒त । क्षु॒धः । सः । इत् । रा॒यः । म॒घ॑वा᳚ । वस्वः᳚ । ई॒श॒ते॒ ।
तस्य᳚ । इत् । इ॒मे । प्र॒व॒णे । स॒प्त । सिन्ध᳚वः । वयः᳚ । व॒र्ध॒न्ति॒ । वृ॒ष॒भस्य᳚ । शु॒ष्मिणः᳚ ॥
तस्य᳚ । इत् । इ॒मे । प्र॒व॒णे । स॒प्त । सिन्ध᳚वः । वयः᳚ । व॒र्ध॒न्ति॒ । वृ॒ष॒भस्य᳚ । शु॒ष्मिणः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
इंद्रः अमतेरस्माकं दुर्बुद्धेः प्रजापहारिण्याः पिपासायावा विषूवृत् विष्वग्वर्तकोभवतु । उतापिच क्षुधोबुभुक्षायाः विषूवृद्भवतु । किंच सइत् सएव मघवा धनवानिंद्रोवस्वोवासयि तुः रायोधनस्य ईशते ईष्टे । किंच वृषभस्य वर्षितुः शुष्मिणः बलवतः तस्येत् इंद्रस्यैव इमे प्रसिद्धाः सप्त सप्तसंख्याकाः सिंधवोनद्यः प्रवणे देशे वयोन्नं वर्धन्ति वर्धयंति ॥ ३ ॥