श्रवणम्

10.43.6
विशं᳚विशं म॒घवा॒ पर्य᳚शायत॒ जना᳚नां॒ धेना᳚ अव॒चाक᳚श॒द्वृषा᳚ ।
यस्याह᳚ श॒क्रः सव᳚नेषु॒ रण्य᳚ति॒ स ती॒व्रैः सोमै᳚ः सहते पृतन्य॒तः ॥
▶ पदपाठः (Word-by-word)
विश᳚म्॑विशम् । म॒घ॑वा᳚ । परि᳚ । अ॒शा॒य॒त॒ । जना᳚नाम् । धेनाः᳚ । अ॒व॒॑चाक᳚शत् । वृषा᳚ ।
यस्य᳚ । अह᳚ । श॒क्रः । सव᳚नेषु । रण्य᳚ति । सः । ती॒व्रैः । सोमैः᳚ । स॒ह॒ते॒ । पृ॒त॒न्य॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषा कामानां वर्षिता मघवा धनवानिंद्रोविशंविशंसर्वान्मनुष्यान् पर्यशायत परिशॆते । किञ्च जनानां स्तोतृजनानां धेनाः स्तुतीः अवचाकशत् अभिपश्यति । किंच शक्रइंद्रोयस्या ह यस्यैव यजमानस्य सवनेषु रण्यति रमते सयजमानस्तीव्रैः तीव्राकारैः प्रदीयमानैः सो- मैः पृतन्यतः संग्राममिच्छतः शत्रून् सहतेभिभवति ॥ ६ ॥