आपो॒ न सिन्धु᳚म॒भि यत्स॒मक्ष᳚र॒न्त्सोमा᳚स॒ इन्द्रं᳚ कु॒ल्या इ᳚व ह्र॒दम् ।
वर्ध᳚न्ति॒ विप्रा॒ महो᳚ अस्य॒ साद᳚ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु᳚ना ॥
वर्ध᳚न्ति॒ विप्रा॒ महो᳚ अस्य॒ साद᳚ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु᳚ना ॥
पदपाठः (Word-by-word)
आपः᳚ । न । सिन्धु᳚म् । अ॒भि । यत् । स॒म्॑अक्ष᳚रन् । सोमा᳚सः । इन्द्र᳚म् । कु॒ल्याः॑इ᳚व । ह्र॒दम् ।
वर्ध᳚न्ति । विप्राः᳚ । महः᳚ । अ॒स्य॒ । साद᳚ने । यव᳚म् । न । वृ॒ष्टिः । दि॒व्येन᳚ । दानु᳚ना ॥
वर्ध᳚न्ति । विप्राः᳚ । महः᳚ । अ॒स्य॒ । साद᳚ने । यव᳚म् । न । वृ॒ष्टिः । दि॒व्येन᳚ । दानु᳚ना ॥
सायणभाष्यम् (Sayana Commentary)
यद्यदा सोमासः सोमाः इंद्रमभिसमक्षरन् अभिक्षरंति अभिगच्छंतीत्यर्थः । तत्रदृष्टांतौ दर्शयति—आपोन यथा आपः सिंधुं समुद्रमभिसमक्षरंति कुल्याइव यथा च कुल्याः ह्रद- मभिसमक्षरंति तद्वदित्यर्थः । तदानीमस्येंद्रस्य महोमहत्त्वं सदने यज्ञे विप्रामेधाविनोवर्धन्ति वर्धयन्ति । तत्रदृष्टांतमाह—यवंन यथा यवं यवसस्यं वृष्टिः कर्तरि कृत् वर्षितापर्जन्योदि- व्येन दिविभवेन दानुना दानेन वर्षणेन वर्धयति तद्वदित्यर्थः ॥ ७ ॥