श्रवणम्

10.43.9
उज्जा᳚यतां पर॒शुर्ज्योति᳚षा स॒ह भू॒या ऋ॒तस्य᳚ सु॒दुघा᳚ पुराण॒वत् ।
वि रो᳚चतामरु॒षो भा॒नुना॒ शुचि॒ः स्व१॒᳚र्ण शु॒क्रं शु᳚शुचीत॒ सत्प᳚तिः ॥
▶ पदपाठः (Word-by-word)
उत् । जा॒य॒ता॒म् । प॒र॒शुः । ज्योति᳚षा । स॒ह । भू॒याः । ऋ॒तस्य᳚ । सु॒॑दुघा᳚ । पु॒रा॒ण॒॑वत् ।
वि । रो॒च॒ता॒म् । अ॒रु॒षः । भा॒नुना᳚ । शुचिः᳚ । स्वः॒ । न । शु॒क्रम् । शु॒शु॒ची॒त॒ । सत्॑प᳚तिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

परशुरिंद्रस्य वज्रोज्योतिषा तेजसा सहउज्जायतां अस्मच्छत्रुवधे मेघवधेच व्याप्रियता- मित्यर्थः । किंच ऋतस्य सत्यस्य सुदुघा माध्यमिका वाक् पुराणवत् काले भूया भूयात् पुरुषव्यत्ययः । किंचेंद्रः अरुषः आरोचमानोभानुना दीप्त्याशुचिर्ज्वलन् विरोचतां प्रकाशताम् । किंच सत्पतिः सतां पतिरिंद्रः स्वर्न आदित्यइव शुक्रं ज्वलन् शुशुचीत अत्यंतं दीप्यताम् । ॥ ९ ॥