श्रवणम्

10.43.2 समानपद
न घा᳚ त्व॒द्रिगप᳚ वेति मे॒ मन॒स्त्वे इत्कामं᳚ पुरुहूत शिश्रय ।
राजे᳚व दस्म॒ नि ष॒दो॑धि᳚ ब॒र्हिष्य॒स्मिन्त्सु सोमे᳚॑व॒पान᳚मस्तु ते ॥
▶ पदपाठः (Word-by-word)
न । घ॒ । त्व॒द्रिक् । अप᳚ । वे॒ति॒ । मे॒ । मनः᳚ । त्वे इति᳚ । इत् । काम᳚म् । पु॒रु॒॑हू॒त॒ । शि॒श्र॒य॒ ।
राजा᳚॑इव । द॒स्म॒ । नि । स॒दः॒ । अधि᳚ । ब॒र्हिषि᳚ । अ॒स्मिन् । सु । सोमे᳚ । अ॒व॒॑पान᳚म् । अ॒स्तु॒ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुहूत बहुभिराहूत दस्म दर्शनीयेंद्र त्वद्रिक् त्वदभिमुखं मे मदीयं मनोन घ नख- ल्वपवेति त्वत्तोपगच्छति । किंच त्वे इत् त्वय्येव काममभिलाषं शिश्रयं स्थापयामि । किं- च राजेव ईश्वरइव बर्हिष्यधि निषदः । किंच ते तवास्मिन् सोमे सुशोभनं अवपानमस्तु भवतु ॥ २ ॥