श्रवणम्

10.43.4 समानपद
वयो॒ न वृ॒क्षं सु᳚पला॒शमास᳚द॒न्त्सोमा᳚स॒ इन्द्रं᳚ म॒न्दिन᳚श्चमू॒षदः᳚ ।
प्रैषा॒मनी᳚कं॒ शव᳚सा॒ दवि᳚द्युतद्वि॒दत्स्व१॒᳚र्मन᳚वे॒ ज्योति॒रार्य᳚म् ॥
▶ पदपाठः (Word-by-word)
वयः᳚ । न । वृ॒क्षम् । सु॒॑प॒ला॒शम् । आ । अ॒स॒द॒न् । सोमा᳚सः । इन्द्र᳚म् । म॒न्दिनः᳚ । च॒मू॒॑सदः᳚ ।
प्र । ए॒षा॒म् । अनी᳚कम् । शव᳚सा । दवि᳚द्युतत् । वि॒दत् । स्वः᳚ । मन᳚वे । ज्योतिः᳚ । आर्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयोन यथा पक्षिणः सुपलाशं शोभनपर्णं वृक्षमासदन् आसीदंति तद्वन्मंदिनोमदकरा- श्चमूषदश्चमसपात्रेषु स्थातारः सोमासः सोमाः इंद्रमासदन् आसीदंति अधितिष्ठंतीत्यर्थः । एषामिंद्रमधितिष्ठतां सोमानां शवसा वेगेन युक्तमनीकमग्रं प्रदविद्युतत् प्रद्योतते । किंचा- यमिंद्रः स्वः स्वात्मना आर्यं प्रेर्यं ज्योतिरादित्याख्यं तेजोमनवे मनुष्येभ्योविदत् प्रयच्छतु । ॥ ४ ॥