श्रवणम्

10.43.8
वृषा॒ न क्रु॒द्धः प᳚तय॒द्रज॒स्स्वा यो अ॒र्यप᳚त्नी॒रकृ᳚णोदि॒मा अ॒पः ।
स सु᳚न्व॒ते म॒घवा᳚ जी॒रदा᳚न॒वे॑वि᳚न्द॒ज्ज्योति॒र्मन᳚वे ह॒विष्म᳚ते ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । न । क्रु॒द्धः । प॒त॒य॒त् । रजः᳚॑सु । आ । यः । अ॒र्य॑प᳚त्नीः । अकृ᳚णोत् । इ॒माः । अ॒पः ।
सः । सु॒न्व॒ते । म॒घ॑वा᳚ । जी॒र॑दा᳚नवे । अवि᳚न्दत् । ज्योतिः᳚ । मन᳚वे । ह॒विष्म᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

रजःसु लोकेषु वृषा न यथा वृषभः क्रुद्धः सन् प्रतिवृषभवधाय पतयत् गच्छति तद्वत् यइंद्रः क्रुद्धः सन् मेघवधाय पतति हत्वा च मेघं अर्यपत्नीः सर्वस्य जगतः स्वामिनइंद्रस्य पालयितव्याः इमाः प्रसिद्धाः अपः वृष्ट्युदकानि आकृणोत् आकृणोति । अस्मदभिमुखं क- रोति समघवा धनवानिंद्रः सुन्वते सोमाभिषवं कुर्वते जीरदानवे क्षिप्रदानाय हविष्मते मनवे मनुष्याय यजमानायेत्यर्थः । ज्योतिस्तेजोऽविंदत् प्रायच्छत् ॥ ८ ॥