कृ॒तं न श्व॒घ्नी वि चि᳚नोति॒ देव᳚ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय᳚त् ।
न तत्ते᳚ अ॒न्यो अनु᳚ वी॒र्यं᳚ शक॒न्न पु᳚रा॒णो म᳚घव॒न्नोत नूत᳚नः ॥
न तत्ते᳚ अ॒न्यो अनु᳚ वी॒र्यं᳚ शक॒न्न पु᳚रा॒णो म᳚घव॒न्नोत नूत᳚नः ॥
पदपाठः (Word-by-word)
कृ॒तम् । न । श्व॒॑घ्नी । वि । चि॒नो॒ति॒ । देव᳚ने । स॒म्॑वर्ग᳚म् । यत् । म॒घ॑वा᳚ । सूर्य᳚म् । जय᳚त् ।
न । तत् । ते॒ । अ॒न्यः । अनु᳚ । वी॒र्य᳚म् । श॒क॒त् । न । पु॒रा॒णः । म॒घ॒॑व॒न् । न । उ॒त । नूत᳚नः ॥
न । तत् । ते॒ । अ॒न्यः । अनु᳚ । वी॒र्य᳚म् । श॒क॒त् । न । पु॒रा॒णः । म॒घ॒॑व॒न् । न । उ॒त । नूत᳚नः ॥
सायणभाष्यम् (Sayana Commentary)
श्वघ्नी परस्वानां हंता कितवोदेवने द्यूते कृतं न यथा हतं विचिनोति तद्वदिंद्रः सूर्यं मृगयते । कदेत्यतआह—यद्यदामघवा धनवानिंद्रः संवर्गं सम्यक् वृष्टेः वर्जयितारं सूर्यमा- दित्यं जयत् तदीयरसापहरणद्वारेण जयति । अथ प्रत्यक्षस्तुतिः हे मघवन्धनवन्निंद्र ते तव तत् सूर्यजयलक्षणं वीर्यं वीरत्वमन्यस्त्वत्तोन्योभविष्यत्कालीनः पुमान् अनु अनुकर्तुं न शकत् न शक्नोति पुराणः पुरातनोपि त्वद्वीर्यं अनुकर्तुं न शकत् न शक्नोति । उतापिच नूतनोवर्तमानकालीनोपि त्वदीयं वीर्यंअनुकर्तुं न शक्नोति ॥ ५ ॥