उद्ध᳚र्षय मघव॒न्नायु᳚धा॒न्युत्सत्व᳚नां माम॒कानां॒ मनां᳚सि ।
उद्वृ᳚त्रहन्वा॒जिनां॒ वाजि᳚ना॒न्युद्रथा᳚नां॒ जय᳚तां यन्तु॒ घोषा᳚ः ॥
उद्वृ᳚त्रहन्वा॒जिनां॒ वाजि᳚ना॒न्युद्रथा᳚नां॒ जय᳚तां यन्तु॒ घोषा᳚ः ॥
पदपाठः (Word-by-word)
उत् । ह॒र्ष॒य॒ । म॒घ॒॑व॒न् । आयु᳚धानि । उत् । सत्व᳚नाम् । मा॒म॒काना᳚म् । मनां᳚सि ।
उत् । वृ॒त्र॒॑ह॒न् । वा॒जिना᳚म् । वाजि᳚नानि । उत् । रथा᳚नाम् । जय᳚ताम् । य॒न्तु॒ । घोषाः᳚ ॥
उत् । वृ॒त्र॒॑ह॒न् । वा॒जिना᳚म् । वाजि᳚नानि । उत् । रथा᳚नाम् । जय᳚ताम् । य॒न्तु॒ । घोषाः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे मघवन्निन्द्र अस्मदीयान्ययुधान्युद्धर्षय। उत्कृष्टम् हर्षय। प्रहरणेषुद्युक्तानि भवन्त्वित्यर्थः। मामकानामस्मदीयानां सत्वनां प्राणिनां सेवकानां मनांसि चोद्धर्षय। हे वृत्रहन्निन्द्र वाजिनामश्वानां वाजिनानि वेगा उद्यन्तु। तथा जयतां रथानां घोषा उद्यन्तु॥१०॥