अ॒मीषां᳚ चि॒त्तं प्र᳚तिलो॒भय᳚न्ती गृहा॒णाङ्गा᳚न्यप्वे॒ परे᳚हि ।
अ॒भि प्रेहि॒ निर्द᳚ह हृ॒त्सु शोकै᳚र॒न्धेना॒मित्रा॒स्तम᳚सा सचन्ताम् ॥
अ॒भि प्रेहि॒ निर्द᳚ह हृ॒त्सु शोकै᳚र॒न्धेना॒मित्रा॒स्तम᳚सा सचन्ताम् ॥
पदपाठः (Word-by-word)
अ॒मीषा᳚म् । चि॒त्तम् । प्र॒ति॒॑लो॒भय᳚न्ती । गृ॒हा॒ण । अङ्गा᳚नि । अ॒प्वे॒ । परा᳚ । इ॒हि॒ ।
अ॒भि । प्र । इ॒हि॒ । निः । द॒ह॒ । हृ॒त्॑सु । शोकैः᳚ । अ॒न्धेन᳚ । अ॒मित्राः᳚ । तम᳚सा । स॒च॒न्ता॒म् ॥
अ॒भि । प्र । इ॒हि॒ । निः । द॒ह॒ । हृ॒त्॑सु । शोकैः᳚ । अ॒न्धेन᳚ । अ॒मित्राः᳚ । तम᳚सा । स॒च॒न्ता॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अप्वे पापाभिनानिनि देवते अमीषां योद्धॄणां शत्रूणां दित्तं प्रतिलोभयन्ती विमोहयन्त्यङ्गानि तेषामवयवाञ्शरादिकान्ग्रुहान। स्वीकुरु। अभिप्रेहि। अभिगच्छ। तेषां समीपं गत्वा च हृत्सु हृदयेषु शोकैर्निर्दह। नितरां भस्मीकुरु। तेऽमित्रा अस्मच्छत्रवोऽन्धेन तमसा सचन्ताम्। तङ्गच्छन्ताम्॥१२॥