स इषु᳚हस्तै॒ः स नि᳚ष॒ङ्गिभि᳚र्व॒शी संस्र᳚ष्टा॒ स युध॒ इन्द्रो᳚ ग॒णेन᳚ ।
सं॒सृ॒ष्ट॒जित्सो᳚म॒पा बा᳚हुश॒र्ध्यु१॒᳚ग्रध᳚न्वा॒ प्रति᳚हिताभि॒रस्ता᳚ ॥
सं॒सृ॒ष्ट॒जित्सो᳚म॒पा बा᳚हुश॒र्ध्यु१॒᳚ग्रध᳚न्वा॒ प्रति᳚हिताभि॒रस्ता᳚ ॥
पदपाठः (Word-by-word)
सः । इषु᳚॑हस्तैः । सः । नि॒ष॒ङ्गि॑भिः᳚ । व॒शी । सम्॑स्र᳚ष्टा । सः । युधः᳚ । इन्द्रः᳚ । ग॒णेन᳚ ।
सं॒सृ॒ष्ट॒॑जित् । सो॒म॒॑पाः । बा॒हु॒॑श॒र्धी । उ॒ग्र॑ध᳚न्वा । प्रति᳚॑हिताभिः । अस्ता᳚ ॥
सं॒सृ॒ष्ट॒॑जित् । सो॒म॒॑पाः । बा॒हु॒॑श॒र्धी । उ॒ग्र॑ध᳚न्वा । प्रति᳚॑हिताभिः । अस्ता᳚ ॥
सायणभाष्यम् (Sayana Commentary)
पूर्वमन्त्र इन्द्रेण यजतेत्युक्तं आत्रेन्द्रस्य जयसाधनसमर्थत्वम् दर्शयति। स इन्द्र इषुहस्तैर्भटैर्मरुदादिभिर्वशी वश्यैस्तद्वान्। तथा निषङ्गिभिर्युक्तः। निषङ्गः खड्गः। तद्वद्भिर्वशी। स चेन्द्रो युधो युध्यमानः सन्। इगुपधलक्षनः कः। अथवा युधो युद्धहेतोर्गणेन शत्रुसङ्घेन सह संस्रष्टैकीभवनशीलः। यत एवं विधोऽतः संसृष्टजित्। ये परस्परैकमत्येन युद्धाय संसृष्टा भवन्ति तेषां जेता। तथा सोमपाः सोमस्य पाता। बाहुशर्धी। भर्धो बलम् । बाह्वोर्बलं बाहुबलम्। तद्वान्। मत्वर्थीय इनिः। यद्वा। शृधु प्रसहने। बाहुभ्यां शर्धयत्यभिभवतीति बाहुशर्धी। सुप्यजातौ णिनिस्ताच्छील्ये। पा. ३-२-७८। इति णिनिः। उग्रधन्वोद्यतधन्वा प्रतिहिताभिः शत्रुषु प्रेरिताभिरिषुभिरस्ता मारयिता। यत्रेषून्मुञ्चति तत्र वृथा न भवतीत्यर्थः। ईदृशेनेन्द्रेण जयतेति सम्बन्धः॥३॥