श्रवणम्

10.103.5
ब॒ल॒वि॒ज्ञा॒यः स्थवि᳚र॒ः प्रवी᳚र॒ः सह᳚स्वान्वा॒जी सह᳚मान उ॒ग्रः ।
अ॒भिवी᳚रो अ॒भिस᳚त्वा सहो॒जा जैत्र᳚मिन्द्र॒ रथ॒मा ति᳚ष्ठ गो॒वित् ॥
▶ पदपाठः (Word-by-word)
ब॒ल॒॑वि॒ज्ञा॒यः । स्थवि᳚रः । प्र॑वी᳚रः । सह᳚स्वान् । वा॒जी । सह᳚मानः । उ॒ग्रः ।
अ॒भि॑वी᳚रः । अ॒भि॑स᳚त्वा । स॒हः॒॑जाः । जैत्र᳚म् । इ॒न्द्र॒ । रथ᳚म् । आ । ति॒ष्ठ॒ । गो॒॑वित् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सर्वस्य भूतस्य बलं विजानातीति बलविज्ञायः। यद्वा। बलं ममायमिति सर्वैर्बलत्वेन विज्ञायत इति बलविज्ञायः। सर्वस्य बलभुत इत्यर्थः। स्थविरो महान् प्रवीरः प्रकर्षेण वीरः सहस्वान् पराभिभवसामर्थ्यवान् वाजी वेजनवान् अन्नवान्वा सहमानः शत्रूणामभिभवितोग्र उद्गूर्णबलोऽभिवीरः। अभिगता वीरा वीर्यवन्तोऽनुचरा यस्य स तथोक्तः। अभिसत्वाभिगतसत्वा सहोजाः सहसो बलज्जातः एवं महानुभवस्त्वं हे इन्द्र जैत्रं जयशीलं रथमा इत्ष्ठ। अस्मत्सहायार्थमारोढुमर्हसि। त्वं च गोविदुदकस्य स्तुतेर्वा लब्धा वेदिता वा॥५॥