श्रवणम्

10.103.2
सं॒क्रन्द᳚नेनानिमि॒षेण᳚ जि॒ष्णुना᳚ युत्का॒रेण᳚ दुश्च्यव॒नेन᳚ धृ॒ष्णुना᳚ ।
तदिन्द्रे᳚ण जयत॒ तत्स᳚हध्वं॒ युधो᳚ नर॒ इषु᳚हस्तेन॒ वृष्णा᳚ ॥
▶ पदपाठः (Word-by-word)
स॒म्॑क्रन्द᳚नेन । अ॒नि॒॑मि॒षेण᳚ । जि॒ष्णुना᳚ । यु॒त्॑का॒रेण᳚ । दुः॒॑च्य॒व॒नेन᳚ । धृ॒ष्णुना᳚ ।
तत् । इन्द्रे᳚ण । ज॒य॒त॒ । तत् । स॒ह॒ध्व॒म् । युधः᳚ । न॒रः॒ । इषु᳚॑हस्तेन । वृष्णा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्तु नामेन्द्र उक्तविधः तथाप्यस्माकं किमिति चेत् आह। सङ्क्रन्दनेनानिमिषेण चोक्तलक्षणेन जिष्णुना जयशीलेन युत्कारेण। योधनं युत्। य्द्द्धाकारिणा। कर्मण्यण्। दुश्च्यवनेनान्यैरविचाल्येन। च्युङ् प्रुङ् गतौ। छन्दसि गत्यर्थेभ्यः। पा. २-२-१२९। इति युच्। धृष्णुना धर्षकेन ईदृशेनेन्द्रेण तद्युद्धं जयत। शत्रुबलं सहध्वम् । अभिभवत। हे युधो योद्धारो हे नरो नेतारः। विभाषितं विशेषवचने बहुवचनम्। पा. ८-१-७४। इति पुर्वस्याविद्यमानवत्त्वनिषेधादुत्तरं निहन्यते। पुनः कीदृशेनेन्द्रेणेति। इषुहस्तेन वृष्ना वर्षित्रा च॥२॥