श्रवणम्

10.103.11 समानपद
अ॒स्माक॒मिन्द्र॒ः समृ᳚तेषु ध्व॒जेष्व॒स्माकं॒ या इष᳚व॒स्ता ज᳚यन्तु ।
अ॒स्माकं᳚ वी॒रा उत्त᳚रे भवन्त्व॒स्मा{4} उ᳚ देवा अवता॒ हवे᳚षु ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । इन्द्रः᳚ । सम्॑ऋ᳚तेषु । ध्व॒जेषु᳚ । अ॒स्माक᳚म् । याः । इष᳚वः । ताः । ज॒य॒न्तु॒ ।
अ॒स्माक᳚म् । वी॒राः । उत्॑त᳚रे । भ॒व॒न्तु॒ । अ॒स्मान् । ऊं॒ इति᳚ । दे॒वाः॒ । अ॒व॒त॒ । हवे᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्माकं सम्बन्धिष्टेव समृतेषु परसेनाम् सम्प्राप्तेशु ध्वजेशु ध्वजवत्सु सैनिकेष्विन्द्रो रक्षिता भवतु। तथास्माकं या इषवः सन्ति ता एव जयन्तु शत्रून्। तथास्माकम् । वीरा भटा उत्तर उपरि भवन्तु। हे देवा अस्मा उ अस्मानेवावत रक्षत हवेषु सङ्ग्रामेषु॥११॥