प्रेता॒ जय᳚ता नर॒ इन्द्रो᳚ व॒ः शर्म᳚ यच्छतु ।
उ॒ग्रा वः᳚ सन्तु बा॒हवो᳚॑नाधृ॒ष्या यथास᳚थ ॥
उ॒ग्रा वः᳚ सन्तु बा॒हवो᳚॑नाधृ॒ष्या यथास᳚थ ॥
पदपाठः (Word-by-word)
प्र । इ॒त॒ । जय᳚त । न॒रः॒ । इन्द्रः᳚ । वः॒ । शर्म᳚ । य॒च्छ॒तु॒ ।
उ॒ग्राः । वः॒ । स॒न्तु॒ । बा॒हवः᳚ । अ॒ना॒धृ॒ष्याः । यथा᳚ । अस᳚थ ॥
उ॒ग्राः । वः॒ । स॒न्तु॒ । बा॒हवः᳚ । अ॒ना॒धृ॒ष्याः । यथा᳚ । अस᳚थ ॥
सायणभाष्यम् (Sayana Commentary)
हे नरो नेतारः सङ्ग्रामस्य निर्वोढारो योद्धारः प्रेत। प्रकर्षेन गच्छत। गत्वा च जयत तान्प्रतिभटान्। तिङः परत्वात्तिङ्गतिङ इति निघाताभावः। वो युष्माकमिन्द्रः शर्म सुखं यच्छतु। प्रयच्छतु। वो बाहव उग्रा उद्गूर्ण बलाः सन्तु। भवन्तु। अनाधृष्या अन्यैरनभिभाव्या यथा यूयमसथ भविष्यथ तथोग्राः सन्तु वो बाहवः॥१३॥