इन्द्र᳚स्य॒ वृष्णो॒ वरु᳚णस्य॒ राज्ञ᳚ आदि॒त्यानां᳚ म॒रुतां॒ शर्ध᳚ उ॒ग्रम् ।
म॒हाम᳚नसां भुवनच्य॒वानां॒ घोषो᳚ दे॒वानां॒ जय᳚ता॒मुद᳚स्थात् ॥
म॒हाम᳚नसां भुवनच्य॒वानां॒ घोषो᳚ दे॒वानां॒ जय᳚ता॒मुद᳚स्थात् ॥
पदपाठः (Word-by-word)
इन्द्र᳚स्य । वृष्णः᳚ । वरु᳚णस्य । राज्ञः᳚ । आ॒दि॒त्याना᳚म् । म॒रुता᳚म् । शर्धः᳚ । उ॒ग्रम् ।
म॒हा॑म᳚नसाम् । भु॒व॒न॒॑च्य॒वाना᳚म् । घोषः᳚ । दे॒वाना᳚म् । जय᳚ताम् । उत् । अ॒स्था॒त् ॥
म॒हा॑म᳚नसाम् । भु॒व॒न॒॑च्य॒वाना᳚म् । घोषः᳚ । दे॒वाना᳚म् । जय᳚ताम् । उत् । अ॒स्था॒त् ॥
सायणभाष्यम् (Sayana Commentary)
वृष्णो वर्षकस्येन्द्रस्य राज्ञो वरुणस्यादित्यानां मरुतां चोग्र मुद्गूर्णं शर्धो बलमस्माकं भवत्विति शेषः। किञ्च महामनसामुदारमनसां भुवनच्यवानां चावयितॄणां देवानां घोषो जयशबद् उदस्थात्। उत्तिष्ठति। अनूर्ध्वकर्मत्वादात्मनेपदाभावः। पा. १-३-३४॥९॥