श्रवणम्

10.103.4
बृह᳚स्पते॒ परि᳚ दीया॒ रथे᳚न रक्षो॒हामित्रा{4}᳚ अप॒बाध᳚मानः ।
प्र॒भ॒ञ्जन्त्सेना᳚ः प्रमृ॒णो यु॒धा जय᳚न्न॒स्माक᳚मेध्यवि॒ता रथा᳚नाम् ॥
▶ पदपाठः (Word-by-word)
बृह᳚स्पते । परि᳚ । दी॒य॒ । रथे᳚न । र॒क्षः॒॑हा । अ॒मित्रा᳚न् । अ॒प॒॑बाध᳚मानः ।
प्र॒॑भ॒ञ्जन् । सेनाः᳚ । प्र॒॑मृ॒णः । यु॒धा । जय᳚न् । अ॒स्माक᳚म् । ए॒धि॒ । अ॒वि॒ता । रथा᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे बृहस्पते बृहताम् पातः पालयितर्देव रथेन परि दीय। परिगच्छ। दीयतिर्गच्छतिकर्मा। आगत्य च रक्षोहा रक्षसां हन्तामित्राञ्शत्रूनपबाधमानः सर्वतो नाशयन् तथा सेनाः शत्रुसम्बन्धिनीः प्रभञ्जन् प्रकर्षेण नाशयन् प्रमृणः प्रकर्षेण हिंसन्। म्रुण हिंसायाम्। इगुफधलक्षणः कः। केन हिंसन्। युधा युद्धेन। सावेकाच इति विभक्तेरुदात्तत्वम्। जयन्नेवं सर्वत्र जयं प्रतिपद्यमानः ईदृशस्त्वमुस्माकम् रथानामवितैधि। भव॥४॥