इन्द्र᳚ आसां ने॒ता बृह॒स्पति॒र्दक्षि᳚णा य॒ज्ञः पु॒र ए᳚तु॒ सोमः᳚ ।
दे॒व॒से॒नाना᳚मभिभञ्जती॒नां जय᳚न्तीनां म॒रुतो᳚ य॒न्त्वग्र᳚म् ॥
दे॒व॒से॒नाना᳚मभिभञ्जती॒नां जय᳚न्तीनां म॒रुतो᳚ य॒न्त्वग्र᳚म् ॥
पदपाठः (Word-by-word)
इन्द्रः᳚ । आ॒सा॒म् । ने॒ता । बृह॒स्पतिः᳚ । दक्षि᳚णा । य॒ज्ञः । पु॒रः । ए॒तु॒ । सोमः᳚ ।
दे॒व॒॑से॒नाना᳚म् । अ॒भि॒॑भ॒ञ्ज॒ती॒नाम् । जय᳚न्तीनाम् । म॒रुतः᳚ । य॒न्तु॒ । अग्र᳚म् ॥
दे॒व॒॑से॒नाना᳚म् । अ॒भि॒॑भ॒ञ्ज॒ती॒नाम् । जय᳚न्तीनाम् । म॒रुतः᳚ । य॒न्तु॒ । अग्र᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
आसामस्मत्सहायार्थमागतानामयमिन्द्रो नेता नायकोऽस्तु। तथा तस्य बृहस्पतिः पुर एतु। एवं दक्षिणा यज्ञः सोमश्च पुर एत्विति प्रत्येकं सम्बन्धः। तथा देवसेनानामभिभञ्जतीनामस्मदमित्रानाभिमुख्येन मर्दयन्तीनां जयन्तीनाम्। छन्दसीति नाम उदात्तत्वं जयन्तीनामित्यत्र बहुलवचनान्न भवति। पा. ६-१-१७८। तासामग्रं मरुतो यन्तु। गच्छन्तु॥८॥