श्रवणम्

10.15.11 समानपद
अग्नि᳚ष्वात्ताः पितर॒ एह ग᳚च्छत॒ सदः᳚सदः सदत सुप्रणीतयः ।
अ॒त्ता ह॒वींषि॒ प्रय᳚तानि ब॒र्हिष्यथा᳚ र॒यिं सर्व᳚वीरं दधातन ॥
▶ पदपाठः (Word-by-word)
अग्नि᳚॑स्वात्ताः । पि॒त॒रः॒ । आ । इ॒ह । ग॒च्छ॒त॒ । सदः᳚॑सदः । स॒द॒त॒ । सु॒॑प्र॒नी॒त॒यः॒ ।
अ॒त्त । ह॒वींषि᳚ । प्र॑य᳚तानि । ब॒र्हिषि᳚ । अथ᳚ । र॒यिम् । सर्व᳚॑वीरम् । द॒धा॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निष्वात्ताः अग्निनास्वादिताः एतन्नामकाः पितरः यूयं इहास्मिन् पितृकर्मणि आग- च्छत । आगत्य च हे सुप्रणीतयः अभिपूजितप्रणयनायूयं सदः सदः स्वस्वस्थानं सदत सीदत तत्रतत्र स्थाने यथेष्टमुपविशतेत्यर्थः । उपविश्य च बर्हिष्यासादितानि प्रयतानि सुचीनि हवींषि अत्त भक्षयत । अथानन्तरं सर्ववीरं सर्वैर्बीरैः पुत्रपौत्रैरुपेतं रयिं धनं दधातन अस्मभ्यंदत्त ॥ ११ ॥ महापितृयज्ञे वषट्कारक्रियायां त्वमग्नईळितइत्येषा स्विष्टकृतोयाज्या । सूत्रितंच—यो- ग्निः कव्यवाहनस्त्वमग्नईळितोजातवेदइतिसंयाज्येति ।