आहं पि॒तॄन्त्सु᳚वि॒दत्रा{4}᳚ अवित्सि॒ नपा᳚तं च वि॒क्रम᳚णं च॒ विष्णो᳚ः ।
ब॒र्हि॒षदो॒ ये स्व॒धया᳚ सु॒तस्य॒ भज᳚न्त पि॒त्वस्त इ॒हाग᳚मिष्ठाः ॥
ब॒र्हि॒षदो॒ ये स्व॒धया᳚ सु॒तस्य॒ भज᳚न्त पि॒त्वस्त इ॒हाग᳚मिष्ठाः ॥
पदपाठः (Word-by-word)
आ । अ॒हम् । पि॒तॄन् । सु॒॑वि॒दत्रा᳚न् । अ॒वि॒त्सि॒ । नपा᳚तम् । च॒ । वि॒॑क्रम᳚णम् । च॒ । विष्णोः᳚ ।
ब॒र्हि॒॑सदः᳚ । ये । स्व॒धया᳚ । सु॒तस्य᳚ । भज᳚न्त । पि॒त्वः । ते । इ॒ह । आ॑ग᳚मिष्ठाः ॥
ब॒र्हि॒॑सदः᳚ । ये । स्व॒धया᳚ । सु॒तस्य᳚ । भज᳚न्त । पि॒त्वः । ते । इ॒ह । आ॑ग᳚मिष्ठाः ॥
सायणभाष्यम् (Sayana Commentary)
अहं यजमानः सुविदत्रान् मदीयां भक्तिं सुष्ठु जानतः पितॄन् आअवित्सि आभिमुख्येन लब्धवानस्मि । विष्णोर्व्यापिनोयज्ञस्य नपातं च विनाशाभावं च विक्रमणं विशेषेणप्रवृत्तिं च लब्धवानस्मि ये पितरोबर्हिषदः बर्हिषि सीदन्ति ते इहास्मिन्कर्मणि आगमिष्ठाः अति शयेनागताः आदरपूर्वं समागत्य स्वधया पुरोडाशाद्यन्नेन सह सुतस्याभिषुतस्य सोमलक्ष णस्य पित्वः पितोरन्नस्य भागं भजन्त सेवन्ते उपयुंजते ॥ ३ ॥