श्रवणम्

10.15.2 समानपद
इ॒दं पि॒तृभ्यो॒ नमो᳚ अस्त्व॒द्य ये पूर्वा᳚सो॒ य उप᳚रास ई॒युः ।
ये पार्थि᳚वे॒ रज॒स्या निष᳚त्ता॒ ये वा᳚ नू॒नं सु᳚वृ॒जना᳚सु वि॒क्षु ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । पि॒तृ॑भ्यः᳚ । नमः᳚ । अ॒स्तु॒ । अ॒द्य । ये । पूर्वा᳚सः । ये । उप᳚रासः । ई॒युः ।
ये । पार्थि᳚वे । रज᳚सि । आ । नि॑स᳚त्ताः । ये । वा॒ । नू॒नम् । सु॒॑वृ॒जना᳚सु । वि॒क्षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वासः यजमानोत्पत्तेः पूर्वमुत्पन्नाः ज्येष्ठभ्रातृपितामहादयोये ईयुः पितृलोकं प्राप्ताः ये चान्ये उपरासो यजमान जन्मनउपर्युत्पन्नाः कनिष्ठभातृस्वपुत्रादयः ईयुः पितृलोकं प्राप्ताः येप्यन्ये पार्थिवे पृथिवीसंबन्धिनि रजसि रजोगुणकार्येस्मिन्कर्मणि आनिषत्ताः हविः स्वी कर्तुमागत्योपविष्टाः ये वा केचिदन्ये बन्धुवर्गरूपाः पितरः विक्षु बन्धुरूपासु नूनं निश्च- येन आनिषत्ताः श्राद्धादिस्वीकारायागत्योपविष्टाः । कीदृशीषु विक्षु सुव्ऋजनासु वृज्यते परित्यज्यते दारिद्भ्यमनेनेति वृजनं धनं शोभनं वृजनं यासां ताः सुवृजनाः तादृषीषु धन समृध्या श्राद्धादिकर्मपरास्वित्यर्थः । सर्वेभ्यउक्तेभ्यः पितृभ्यः अद्यास्मिन् कर्मणीदं नमोस्तु अयमाहुतिप्रदानपूर्वकोनमस्कारो भवतु ॥ २ ॥