श्रवणम्

10.15.7
आसी᳚नासो अरु॒णीना᳚मु॒पस्थे᳚ र॒यिं ध᳚त्त दा॒शुषे॒ मर्त्या᳚य ।
पु॒त्रेभ्य᳚ः पितर॒स्तस्य॒ वस्व॒ः प्र य᳚च्छत॒ त इ॒होर्जं᳚ दधात ॥
▶ पदपाठः (Word-by-word)
आसी᳚नासः । अ॒रु॒णीना᳚म् । उ॒प॑स्थे᳚ । र॒यिम् । ध॒त्त॒ । दा॒शुषे᳚ । मर्त्या᳚य ।
पु॒त्रेभ्यः᳚ । पि॒त॒रः॒ । तस्य᳚ । वस्वः᳚ । प्र । य॒च्छ॒त॒ । ते । इ॒ह । ऊर्ज᳚म् । द॒धा॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरुणीनामारोचमानानां ज्वालानां वा देवतानां वा उपस्थे समीपस्थाने वेद्याख्ये आ- सीनासः उपविष्टाः पितरोयूयं दाशुषे हविर्दत्तवते मर्त्याय मनुष्याय यजमानाय रयिं धनं धत्त दत्त हे पितरोयूयं तस्य यजमानस्य पुत्रेभ्यः वस्वोवसु धनं प्रयच्छत ते तादृशायूयं इहास्मिन्नस्मदीये कर्मणि ऊर्जं धनं दधात निधत्त ॥ ७ ॥