श्रवणम्

10.15.12
त्वम᳚ग्न ईळि॒तो जा᳚तवे॒दो॑वा᳚ड्ढ॒व्यानि᳚ सुर॒भीणि᳚ कृ॒त्वी ।
प्रादा᳚ः पि॒तृभ्य᳚ः स्व॒धया॒ ते अ᳚क्षन्न॒द्धि त्वं दे᳚व॒ प्रय᳚ता ह॒वींषि᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । ई॒ळि॒तः । जा॒त॒॑वे॒दः॒ । अवा᳚ट् । ह॒व्यानि᳚ । सु॒र॒भीणि᳚ । कृ॒त्वी ।
प्र । अ॒दाः॒ । पि॒तृ॑भ्यः᳚ । स्व॒धया᳚ । ते । अ॒क्ष॒न् । अ॒द्धि । त्वम् । दे॒व॒ । प्र॑य᳚ता । ह॒वींषि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदः जातं सर्वं जगद्वेत्तीति जातवेदाः तथाविध हे अग्ने ईळितः अस्माभिः स्तुतस्त्वं हव्यानि अस्मदीयानि हवींषि सुरभीणि सुगन्धीनि कृत्वी कृत्वा अवाट् हवनं कृतवासि । कृत्वाच पितृभ्यः प्रादाः । ते च पितरः स्वधया स्वधाकाद्रेण दत्तं हविः अक्ष न् अदन्तु हे देव त्वमपि प्रयता प्रयत्नसंपादितानि हवींषि अद्धि भक्षय ॥ १२ ॥ महापितृयज्ञे येचेहेविद्वितीयानुवाक्या । सूत्रमुक्तम् ।