ये न॒ः पूर्वे᳚ पि॒तरः᳚ सो॒म्यासो᳚॑नूहि॒रे सो᳚मपी॒थं वसि᳚ष्ठाः ।
तेभि᳚र्य॒मः सं᳚ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भि᳚ः प्रतिका॒मम᳚त्तु ॥
तेभि᳚र्य॒मः सं᳚ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भि᳚ः प्रतिका॒मम᳚त्तु ॥
पदपाठः (Word-by-word)
ये । नः॒ । पूर्वे᳚ । पि॒तरः᳚ । सो॒म्यासः᳚ । अ॒नु॒॑ऊ॒हि॒रे । सो॒म॒॑पी॒थम् । वसि᳚ष्ठाः ।
तेभिः᳚ । य॒मः । स॒म्॑र॒रा॒णः । ह॒वींषि᳚ । उ॒शन् । उ॒शत्॑भिः᳚ । प्र॒ति॒॑का॒मम् । अ॒त्तु॒ ॥
तेभिः᳚ । य॒मः । स॒म्॑र॒रा॒णः । ह॒वींषि᳚ । उ॒शन् । उ॒शत्॑भिः᳚ । प्र॒ति॒॑का॒मम् । अ॒त्तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
सोम्यासः सोमसंपादिनोवसिष्ठाः वस्तृतमाः कृताच्छादनाः धनवत्तमावा नोस्माकं ये पूर्वे पितरः सोमपीथं सोमपानं अनूहिरे आनुपूर्व्येण देवेभ्यश्च पितृभ्यश्च प्राप्नुवन्तः दत्त वन्तइत्यर्थः । उशन् पितृभिः सहसंभोगं कामयमानोयमः पितृपतिः उशद्भिर्यमेन सह सं- भोगं कामयमानैस्तेभिस्तैरस्मदीयैः पितृभिः सह रराणोरममाणः हवींषि अस्माभिर्दत्तानि प्रतिकामं कामं प्रति अत्तु यानियानि हवींषि कामयते तानितानि भक्षयत्वित्यर्थः ॥ ८ ॥ महापितृयज्ञे अग्नेः कव्यवाहनस्य येतातृषुरित्येषा प्रथमानुवाक्या । सूत्रितंच—येतातृषु- र्देवत्राजेहमानास्त्वदग्नेकाव्यात्वन्मनीषाइति ।