बर्हि᳚षदः पितर ऊ॒त्य१॒᳚र्वागि॒मा वो᳚ ह॒व्या च᳚कृमा जु॒षध्व᳚म् ।
त आ ग॒ताव᳚सा॒ शंत᳚मे॒नाथा᳚ न॒ः शं योर᳚र॒पो द᳚धात ॥
त आ ग॒ताव᳚सा॒ शंत᳚मे॒नाथा᳚ न॒ः शं योर᳚र॒पो द᳚धात ॥
पदपाठः (Word-by-word)
बर्हि᳚॑सदः । पि॒त॒रः॒ । ऊ॒ती । अ॒र्वाक् । इ॒मा । वः॒ । ह॒व्या । च॒कृ॒म॒ । जु॒षध्व᳚म् ।
ते । आ । ग॒त॒ । अव᳚सा । शम्॑त᳚मेन । अथ᳚ । नः॒ । शम् । योः । अ॒र॒पः । द॒धा॒त॒ ॥
ते । आ । ग॒त॒ । अव᳚सा । शम्॑त᳚मेन । अथ᳚ । नः॒ । शम् । योः । अ॒र॒पः । द॒धा॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे बर्हिषदः बर्हिषि यज्ञे सीदन्तीति बर्हिषदः अत्रापि ये वैयज्वानस्तेपितरोबर्हिषदइ- त्यत्र श्रुतत्वात् । यागं कृत्वा प्रेत्य पितृलोकं प्राप्ताः बर्हिषदः तादृशा हे पितरः अर्वागर्वा चीननामस्माकमूती रक्षा भवद्भिः कर्तव्येति शेषः । वोयुश्मदर्थं इमा हव्या एतानि हवींषि चकृम अतस्तानि जुषध्वं ते हविर्जुष्टवन्तोयूयं शंतमेन सुखतमेन अवसा रक्षणेन निमित्त भूतेन आगत आभिमुख्येनास्मान् प्राप्नुत । अथानन्तरं नोस्मभ्यं शं सुखं योः दुःखवियोगं अरपः पापरहितं च दधात दत्त ॥ ४ ॥ महापितृयज्ञे पितरः सोमवन्तइत्यस्य याज्या उपहूताः पितरइत्येषा । सूत्रितंच—उप हूताः पितरः सोम्यासस्त्वंसोमप्रचिकितोमनीषेति ।