श्रवणम्

10.15.9
ये ता᳚तृ॒षुर्दे᳚व॒त्रा जेह᳚माना होत्रा॒विद॒ः स्तोम᳚तष्टासो अ॒र्कैः ।
आग्ने᳚ याहि सुवि॒दत्रे᳚भिर॒र्वाङ्स॒त्यैः क॒व्यैः पि॒तृभि᳚र्घर्म॒सद्भि᳚ः ॥
▶ पदपाठः (Word-by-word)
ये । त॒तृ॒षुः । दे॒व॒॑त्रा । जेह᳚मानाः । हो॒त्रा॒॑विदः᳚ । स्तोम᳚॑तष्टासः । अ॒र्कैः ।
आ । अ॒ग्ने॒ । या॒हि॒ । सु॒॑वि॒दत्रे᳚भिः । अ॒र्वाङ् । स॒त्यैः । क॒व्यैः । पि॒तृ॑भिः᳚ । घ॒र्म॒सत्॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवत्रा देवान् जेहमानाः क्रमेण गच्छन्तः क्रमेण देवत्वं प्राप्ताइत्यर्थः । होत्राविदः य- ज्ञान् सम्यक्कर्तुं वेदितारः अर्कैरर्चनीयैः स्तोत्रैः स्तोमतष्टासः स्तोमानां च सम्यक्कर्तारः ये पितरः तातृषुः तृष्यन्ति हे अग्ने त्वं तैः पितृभिः आ अर्वाङ् अस्मदभिमुखः आयाहि आ- गच्छ । कीदृशैः सुविदत्रेभिः सुविदत्रैः सत्यैरविसंवादिभिः कव्यैः कव्यं नाम पितृदेवत्यं हविः तत्संबन्धिभिः यद्वा कव्यैः कविभिर्मेधाविभिः स्वार्थिकोयत् घर्मसद्भिः यज्ञसादिभिः ॥ ९ ॥