श्रवणम्

10.15.14
ये अ᳚ग्निद॒ग्धा ये अन᳚ग्निदग्धा॒ मध्ये᳚ दि॒वः स्व॒धया᳚ मा॒दय᳚न्ते ।
तेभि᳚ः स्व॒राळसु᳚नीतिमे॒तां य᳚थाव॒शं त॒न्वं᳚ कल्पयस्व ॥
▶ पदपाठः (Word-by-word)
ये । अ॒ग्नि॒॑द॒ग्धाः । ये । अन᳚ग्नि॑दग्धाः । मध्ये᳚ । दि॒वः । स्व॒धया᳚ । मा॒दय᳚न्ते ।
तेभिः᳚ । स्व॒॑राट् । असु᳚॑नीतिम् । ए॒ताम् । य॒था॒॑व॒शम् । त॒न्व᳚म् । क॒ल्प॒य॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये पितरः अग्निदग्धाः अग्निना भस्मीकृताः श्मशानं प्राप्ताइत्यर्थः ये च पितरः अनग्नि दग्धाः श्मशानकर्म न प्राप्ताः मध्येदिवः द्युलोकस्य मध्ये स्वधया हविर्लक्षणेनान्नेन मादय न्ते तृप्यन्ति हे अग्ने स्वराट् स्वकर्मोपभोगेन दीप्यमानः तेभिस्वैः पितृभिः सहितः सन् असुनीतिं प्राणानां विषयेषु नेतारं अस्मत्पित्रन्तरात्मानं एतां तन्वं एतद्देवताशरीरं यथा वशं यथाकामं कल्पयस्व समर्थयस्व ग्रासयेत्यर्थः ॥ १४ ॥

मैनमिति चतुर्दशर्चं षोडशं सूक्तं यमपुत्रस्य दमनस्यार्षं आदितोदश त्रिष्टुभः ततश्च- तस्रोनुष्टुभः अग्निर्देवता । तथाचानुक्रान्तं—मैनं दमनआग्नेयं चतुरनुष्टुबन्तमिति । दीक्षित मरणे आद्याः षळृचः शंसनीयाः । सूत्रितंच—मैनमग्नेविदहोमाभिशोचइति षट् पूषात्वेत श्चयावयतुप्रविद्वानिति । दह्यमानस्यप्रेतस्योपस्थानेप्येताः शंसनीयाः ।