आच्या॒ जानु᳚ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ᳚णीत॒ विश्वे᳚ ।
मा हिं᳚सिष्ट पितर॒ः केन᳚ चिन्नो॒ यद्व॒ आगः᳚ पुरु॒षता॒ करा᳚म ॥
मा हिं᳚सिष्ट पितर॒ः केन᳚ चिन्नो॒ यद्व॒ आगः᳚ पुरु॒षता॒ करा᳚म ॥
पदपाठः (Word-by-word)
आ॒॑अच्य᳚ । जानु᳚ । द॒क्षि॒ण॒तः । नि॒॑सद्य᳚ । इ॒मम् । य॒ज्ञम् । अ॒भि । गृ॒णी॒त॒ । विश्वे᳚ ।
मा । हिं॒सि॒ष्ट॒ । पि॒त॒रः॒ । केन᳚ । चि॒त् । नः॒ । यत् । वः॒ । आगः᳚ । पु॒रु॒षता᳚ । करा᳚म ॥
मा । हिं॒सि॒ष्ट॒ । पि॒त॒रः॒ । केन᳚ । चि॒त् । नः॒ । यत् । वः॒ । आगः᳚ । पु॒रु॒षता᳚ । करा᳚म ॥
सायणभाष्यम् (Sayana Commentary)
पितृणामयं स्वाभाविकोधर्मः अथैनं पितरः प्राचीनावीतिनः सव्यं जान्वाच्येति वचना- त् । हे पितरः विश्वे सर्वे यूयं जानु आच्य भूमौ निपात्य दक्षिणतः दक्षिणपार्श्वे निषद्यो पविश्य इममस्मदीयं यज्ञं अभिगृणीत अभिष्टुत विशिष्टतृप्तियोगात्परया प्रीत्या सगुणोयं यज्ञइति च शंसतेत्यर्थः । अपिच वोयुष्माकं यत्किंचित् कर्मवैगुण्यजनितं आगः अपराधं पुरुषता मनुष्यत्वेन हेतुना कराम वयं कृतवन्तः हे पितरः तेन केनचिदप्यपराधेन नो- स्मान् माहिंसिष्ट ॥ ६ ॥