श्रवणम्

10.15.13
ये चे॒ह पि॒तरो॒ ये च॒ नेह या{4}श्च᳚ वि॒द्म या{4} उ᳚ च॒ न प्र᳚वि॒द्म ।
त्वं वे᳚त्थ॒ यति॒ ते जा᳚तवेदः स्व॒धाभि᳚र्य॒ज्ञं सुकृ᳚तं जुषस्व ॥
▶ पदपाठः (Word-by-word)
ये । च॒ । इ॒ह । पि॒तरः᳚ । ये । च॒ । न । इ॒ह । यान् । च॒ । वि॒द्म । यान् । ऊं॒ इति᳚ । च॒ । न । प्र॒॑वि॒द्म ।
त्वम् । वे॒त्थ॒ । यति᳚ । ते । जा॒त॒॑वे॒दः॒ । स्व॒धाभिः᳚ । य॒ज्ञम् । सु॑कृ᳚तम् । जु॒ष॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये च पितरः इहास्मत्समीपे वर्तन्ते येच इह न सन्ति याँश्च पितॄन् विद्म सन्निकृष्ट- त्वाजानीम यान् उचन अपिच न प्रविद्म विप्रकृष्टत्वात् वयं न विजानीमः यति ते याव न्तस्ते भवन्ति तान् सर्वान् यथोक्तान् हे जातवेदः उत्पन्नसर्ववस्तुविषयज्ञानाग्ने त्वं वेत्थ जानासि स्तधाभिर्हविर्लक्षणैरन्नैः सुकृतं साधुकृतं यज्ञं जुषस्व प्रीत्या गृहाण ॥ १३ ॥ पूर्वोक्तएव यागे येअग्निदग्धा इत्येषा याज्या । सूत्रितंच—येअग्निदग्धायेअनग्निदग्धा इमंयमप्रस्तहितिदेति द्वे इति ।