उ॒षासा॒नक्ता᳚ बृह॒ती सु॒पेश᳚सा॒ द्यावा॒क्षामा॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा ।
इन्द्रं᳚ हुवे म॒रुत॒ः पर्व᳚ता{4} अ॒प आ᳚दि॒त्यान्द्यावा᳚पृथि॒वी अ॒पः स्व᳚ः ॥
इन्द्रं᳚ हुवे म॒रुत॒ः पर्व᳚ता{4} अ॒प आ᳚दि॒त्यान्द्यावा᳚पृथि॒वी अ॒पः स्व᳚ः ॥
पदपाठः (Word-by-word)
उ॒षसा॒नक्ता᳚ । बृ॒ह॒ती इति᳚ । सु॒॑पेश᳚सा । द्यावा॒क्षामा᳚ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ।
इन्द्र᳚म् । हु॒वे॒ । म॒रुतः᳚ । पर्व᳚तान् । अ॒पः । आ॒दि॒त्यान् । द्यावा᳚पृथि॒वी इति᳚ । अ॒पः । स्व१॒᳚रिति᳚ स्वः᳚ ॥
इन्द्र᳚म् । हु॒वे॒ । म॒रुतः᳚ । पर्व᳚तान् । अ॒पः । आ॒दि॒त्यान् । द्यावा᳚पृथि॒वी इति᳚ । अ॒पः । स्व१॒᳚रिति᳚ स्वः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
बृहती बृहत्यौ महत्यौ सुपेशसा सुरूपे उषासानक्ता रात्र्युपसौ द्यावाक्षामा द्यावा- पृथिव्यौ च वरुणोमित्रो मित्रावरुणौ चार्यमा च येत्र विहितादेवास्तानेतानिंद्रं मरुतश्च पर्वताश्च अपउदकानिचादित्यांश्च द्यावापृथिवी द्यावापृथिव्यौ च पुनर्द्यावापृथिव्योर्ग्रहण मादरार्थं अपोंतरिक्षं च स्वः स्वर्गं च यष्टव्यं देवजातं हुवे ह्वयामि ॥ १ ॥