श्रवणम्

10.36.3
विश्व᳚स्मान्नो॒ अदि᳚तिः पा॒त्वंह᳚सो मा॒ता मि॒त्रस्य॒ वरु᳚णस्य रे॒वतः᳚ ।
स्व᳚र्व॒ज्ज्योति᳚रवृ॒कं न᳚शीमहि॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीमहे ॥
▶ पदपाठः (Word-by-word)
विश्व᳚स्मात् । नः॒ । अदि᳚तिः । पा॒तु॒ । अंह᳚सः । मा॒ता । मि॒त्रस्य᳚ । वरु᳚णस्य । रे॒वतः᳚ ।
स्वः᳚॑वत् । ज्योतिः᳚ । अ॒वृ॒कम् । न॒शी॒म॒हि॒ । तत् । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रेवतोधनवतोमित्रस्य वरुणस्य च धनवतोर्मित्रावरुणयोर्माता जनन्यदितिर्देवी नोस्मान् विश्वस्मात्सर्वस्मादंहसः पापात्पातु रक्षतु । किंच वयमवृकं बाधकरहितं स्वर्वत् सर्वं ज्यो- तिस्तेजोनशीमहि नशिः पलायनकर्मा पलायनं च शीघ्रगमनं शीघ्रं प्राप्नुमइत्यर्थः । सिद्ध- मन्यत् ॥ ३ ॥