श्रवणम्

10.36.9
स॒नेम॒ तत्सु᳚स॒निता᳚ स॒नित्व᳚भिर्व॒यं जी॒वा जी॒वपु᳚त्रा॒ अना᳚गसः ।
ब्र॒ह्म॒द्विषो॒ विष्व॒गेनो᳚ भरेरत॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीमहे ॥
▶ पदपाठः (Word-by-word)
स॒नेम᳚ । तत् । सु॒॑स॒निता᳚ । स॒नित्व᳚॑भिः । व॒यम् । जी॒वाः । जी॒व॑पु᳚त्राः । अना᳚गसः ।
ब्र॒ह्म॒॑द्विषः᳚ । विष्व᳚क् । एनः᳚ । भ॒रे॒र॒त॒ । तत् । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जीवाजीवेतोजीवपुत्राज्वनवत्पुत्राश्चानागसोपराधवर्जिताश्च वयं धानाका लुशाः सनि- त्वभिः संभक्तृभिः पुत्रपौत्रादिभिः सह सुसनिता शोभनेन भजनेन तद्देवजातं सनेम स्तुत्या हविः प्रदानेन च संभजेमहि । किंच ब्रह्मद्विषोब्राह्मणानामस्माकं द्वेष्टारोविष्वक् नानागच्छ देनोस्मदीयं पापंभरेरत आत्मनि धारयंतु पोषयंतु । सिद्धमन्यत् ॥ ९ ॥