श्रवणम्

10.36.11
म॒हद॒द्य म᳚ह॒तामा वृ᳚णीम॒हे॑वो᳚ दे॒वानां᳚ बृह॒ताम᳚न॒र्वणा᳚म् ।
यथा॒ वसु᳚ वी॒रजा᳚तं॒ नशा᳚महै॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीमहे ॥
▶ पदपाठः (Word-by-word)
म॒हत् । अ॒द्य । म॒ह॒ताम् । आ । वृ॒णी॒म॒हे॒ । अवः᳚ । दे॒वाना᳚म् । बृ॒ह॒ताम् । अ॒न॒र्वणा᳚म् ।
यथा᳚ । वसु᳚ । वी॒र॑जा᳚तम् । नशा᳚महै । तत् । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्यास्मिन्नहनि महतां श्रेष्ठानां बृहतां वृद्धानां अनर्वणां अप्रतिगतानांदेवानामिंद्रादी- नां संबंधि महदधिकं अवोरक्षणमवृणीमहे प्रार्थयामहे । किंच वयं यथा वसु धनं वीर- जातं अपत्यजातं च नशामहै प्राप्नुयाम तथा ते देवाः कुर्वंत्वितिशॆषः ॥ ११ ॥