श्रवणम्

10.36.4
ग्रावा॒ वद॒न्नप॒ रक्षां᳚सि सेधतु दु॒ष्ष्वप्न्यं॒ निरृ᳚तिं॒ विश्व᳚म॒त्रिण᳚म् ।
आ॒दि॒त्यं शर्म᳚ म॒रुता᳚मशीमहि॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीमहे ॥
▶ पदपाठः (Word-by-word)
ग्रावा᳚ । वद᳚न् । अप᳚ । रक्षां᳚सि । से॒ध॒तु॒ । दुः॒॑स्वप्न्य᳚म् । निः॑ऋ᳚तिम् । विश्व᳚म् । अ॒त्रिण᳚म् ।
आ॒दि॒त्यम् । शर्म᳚ । म॒रुता᳚म् । अ॒शी॒म॒हि॒ । तत् । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ग्रावाभिषवपाषाणोवदन्नभिषववेलायां शब्दं कुर्वन् रक्षांसि यागविघ्नकारीण्यपसेधतु विनिवारयतु दुःखप्न्यं दुःस्वप्नप्रभवमस्मदीयमनिष्टं चापसेधतु निरृतिं मृत्युदेवतांचापसे- धतु अत्रिणं अदनशीलंविश्वं सर्वं पिशाचादिकं चापसेधतु एवं निर्विघ्नेन निष्पन्ने यागे वयमादित्यमादित्यानां मरुतां च संबंध्नि शर्म सुखं अश्मिहि प्राप्नुयाम । सिद्धमन्यत् ॥ ४ ॥