म॒हो अ॒ग्नेः स᳚मिधा॒नस्य॒ शर्म॒ण्यना᳚गा मि॒त्रे वरु᳚णे स्व॒स्तये᳚ ।
श्रेष्ठे᳚ स्याम सवि॒तुः सवी᳚मनि॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीमहे ॥
श्रेष्ठे᳚ स्याम सवि॒तुः सवी᳚मनि॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीमहे ॥
पदपाठः (Word-by-word)
म॒हः । अ॒ग्नेः । स॒म्॑इ॒धा॒नस्य । शर्म᳚णि । अना᳚गाः । मि॒त्रे । वरु᳚णे । स्व॒स्तये᳚ ।
श्रेष्ठे᳚ । स्या॒म॒ । स॒वि॒तुः । सवी᳚मनि । तत् । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
श्रेष्ठे᳚ । स्या॒म॒ । स॒वि॒तुः । सवी᳚मनि । तत् । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
समिधानस्य समिध्यमानस्य महोमहतोग्नेः शर्मं स्याम भवेम । किंच वयमनागाअनाग- सोवचनव्यत्ययः स्याम । अपिच मित्रे वरुणे मित्रोवरुणयोः षष्ठ्यर्थे सप्तमी सवितुश्च श्रेष्ठेऽतिप्रशस्ये सवीमनि प्रसवे स्वस्तये सर्वप्रकाराविनाशाय स्याम । सिद्धमन्यत् ॥ १२ ॥