दि॒वि॒स्पृशं᳚ य॒ज्ञम॒स्माक᳚मश्विना जी॒राध्व᳚रं कृणुतं सु॒म्नमि॒ष्टये᳚ ।
प्रा॒चीन᳚रश्मि॒माहु᳚तं घृ॒तेन॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीमहे ॥
प्रा॒चीन᳚रश्मि॒माहु᳚तं घृ॒तेन॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीमहे ॥
पदपाठः (Word-by-word)
दि॒वि॒॑स्पृश᳚म् । य॒ज्ञम् । अ॒स्माक᳚म् । अ॒श्वि॒ना॒ । जी॒र॑अ᳚ध्वरम् । कृ॒णु॒त॒म् । सु॒म्नम् । इ॒ष्टये᳚ ।
प्रा॒चीन᳚॑रश्मिम् । आ॑हु᳚तम् । घृ॒तेन᳚ । तत् । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
प्रा॒चीन᳚॑रश्मिम् । आ॑हु᳚तम् । घृ॒तेन᳚ । तत् । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विना अश्विनौ युवां नोस्माकं यज्ञं दिविस्पृशं दिविस्पष्टारं गंतारं कृणुतं कुरुतं तथा । जीराध्वरं क्षिप्रं हिंसारहितं च यज्ञं नोस्माकं कृणुतं इष्ट्येभिलषितसिद्धार्थं सुम्नं सुखं च कुरुतम् । किंच घृतेनाज्येनाहुतमग्निं प्राचीनरश्मिं देवाभिमुखं कुरुतमित्यर्थः सिद्ध- मन्यत् ॥ ६ ॥