श्रवणम्

10.36.13
ये स᳚वि॒तुः स॒त्यस᳚वस्य॒ विश्वे᳚ मि॒त्रस्य᳚ व्र॒ते वरु᳚णस्य दे॒वाः ।
ते सौभ᳚गं वी॒रव॒द्गोम॒दप्नो॒ दधा᳚तन॒ द्रवि᳚णं चि॒त्रम॒स्मे ॥
▶ पदपाठः (Word-by-word)
ये । स॒वि॒तुः । स॒त्य॑स᳚वस्य । विश्वे᳚ । मि॒त्रस्य᳚ । व्र॒ते । वरु᳚णस्य । दे॒वाः ।
ते । सौभ᳚गम् । वी॒र॑व᳚त् । गो॑म᳚त् । अप्नः᳚ । दधा᳚तन । द्रवि᳚णम् । चि॒त्रम् । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये विश्वेदेवाः सत्यसवस्य सत्यप्रसवस्य सवितुर्मित्रस्य वरुणस्य मित्रावरुणयोश्च व्रते प्रसवाख्ये कर्मणि भवंति ते यूयं सौभगं सौभाग्यं वीरवत्पुत्राद्युपेतं गोमत् गोयुक्तं चित्रं पूजनीयं द्रविणं धनं चाप्नः कर्म चास्मे मह्यं दधातन प्रयच्छत ॥ १३ ॥