श्रवणम्

10.36.7
उप᳚ ह्वये सु॒हवं॒ मारु᳚तं ग॒णं पा᳚व॒कमृ॒ष्वं स॒ख्याय᳚ श॒म्भुव᳚म् ।
रा॒यस्पोषं᳚ सौश्रव॒साय᳚ धीमहि॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीमहे ॥
▶ पदपाठः (Word-by-word)
उप᳚ । ह्व॒ये॒ । सु॒॑हव᳚म् । मारु᳚तम् । ग॒णम् । पा॒व॒कम् । ऋ॒ष्वम् । स॒ख्याय᳚ । श॒म्॑भुव᳚म् ।
रा॒यः । पोष᳚म् । सौ॒श्र॒व॒साय᳚ । धी॒म॒हि॒ । तत् । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुहवं स्वाह्वानं पावकं शोधकं ऋष्वं दर्शनीयं शंभवं सुखस्य भावयितारं रायोधन- स्य पोषं पोषकं मारुतं मरुतां संबंधिनं गणं संघं सख्याय सखिभावायोपह्वये उपगम्य ह्वयामि आगतं गणं सौश्रवसाय शोभनान्नवत्वाय सुयशस्त्वाय वा वयं धीमहि बुद्धौ निधीमहि । सिद्धमन्यत् ॥ ७ ॥