अ॒पां पेरुं᳚ जी॒वध᳚न्यं भरामहे देवा॒व्यं᳚ सु॒हव᳚मध्वर॒श्रिय᳚म् ।
सु॒र॒श्मिं सोम᳚मिन्द्रि॒यं य᳚मीमहि॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीमहे ॥
सु॒र॒श्मिं सोम᳚मिन्द्रि॒यं य᳚मीमहि॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीमहे ॥
पदपाठः (Word-by-word)
अ॒पाम् । पेरु᳚म् । जी॒व॑ध᳚न्यम् । भ॒रा॒म॒हे॒ । दे॒व॒॑अ॒व्य᳚म् । सु॒॑हव᳚म् । अ॒ध्व॒र॒॑श्रिय᳚म् ।
सु॒॑र॒श्मिम् । सोम᳚म् । इ॒न्द्रि॒यम् । य॒मी॒म॒हि॒ । तत् । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
सु॒॑र॒श्मिम् । सोम᳚म् । इ॒न्द्रि॒यम् । य॒मी॒म॒हि॒ । तत् । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
अपामुदकानां पेरुं पालकं जीवधन्यं धन्याजीवायस्मिन्नसौ जिवधन्यः तं देवाव्यं देवा नां तर्पकं सुहवं शोभनाह्वानं शोभनस्तुतिं वा अध्वरश्रियं सुरश्मिं शोभनांशुं सोमं भ- रामहे धारयामः पत्नीशालातोहविर्धानं प्रति प्रापयामोवा भृतं तं सोममिंद्रियं वीर्यं यमी महि वयं याचामहे । सिद्धमन्यत् ॥ ८ ॥