एन्द्रो᳚ ब॒र्हिः सीद᳚तु॒ पिन्व᳚ता॒मिळा॒ बृह॒स्पति॒ः साम᳚भिरृ॒क्वो अ᳚र्चतु ।
सु॒प्र॒के॒तं जी॒वसे॒ मन्म᳚ धीमहि॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीमहे ॥
सु॒प्र॒के॒तं जी॒वसे॒ मन्म᳚ धीमहि॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीमहे ॥
पदपाठः (Word-by-word)
आ । इन्द्रः᳚ । ब॒र्हिः । सीद᳚तु । पिन्व᳚ताम् । इळा᳚ । बृह॒स्पतिः᳚ । साम᳚॑भिः । ऋ॒क्वः । अ॒र्च॒तु॒ ।
सु॒॑प्र॒के॒तम् । जी॒वसे᳚ । मन्म᳚ । धी॒म॒हि॒ । तत् । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
सु॒॑प्र॒के॒तम् । जी॒वसे᳚ । मन्म᳚ । धी॒म॒हि॒ । तत् । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
इंद्रोबर्हिरासीदतु इळामाध्यमिका स्तनयित्नुलक्षणा वागपि पिन्वतां प्रीणयतु । किंतु सामभिर्गायमाने ऋक्वः स्तुतिमान् बृहस्पतिरप्यर्चतु अस्मान् पूजयतु । किंच वयं सुप्रके- तं सुप्रज्ञानं मन्म मननीयं धनं स्तोत्रं वा धीमहि निधीमहि जीवसे जीवनाय । सिद्ध- मन्यत् ॥ ५ ॥