द्यौश्च᳚ नः पृथि॒वी च॒ प्रचे᳚तस ऋ॒ताव᳚री रक्षता॒मंह᳚सो रि॒षः ।
मा दु᳚र्वि॒दत्रा॒ निरृ᳚तिर्न ईशत॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीमहे ॥
मा दु᳚र्वि॒दत्रा॒ निरृ᳚तिर्न ईशत॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीमहे ॥
पदपाठः (Word-by-word)
द्यौः । च॒ । नः॒ । पृ॒थि॒वी । च॒ । प्र॑चे᳚तसा । ऋ॒तव᳚री॒ इत्यृ॒त॑व᳚री । र॒क्ष॒ता॒म् । अंह᳚सः । रि॒षः ।
मा । दुः॒॑वि॒दत्रा᳚ । निः॑ऋ᳚तिः । नः॒ । ई॒श॒त॒ । तत् । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
मा । दुः॒॑वि॒दत्रा᳚ । निः॑ऋ᳚तिः । नः॒ । ई॒श॒त॒ । तत् । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
प्रचेतसा सुबुद्धी ऋतावरी यज्ञवत्यौ सत्यवत्यौ च द्यौश्चपृथिवी च द्यावापृथिव्यावुभे नोस्मान् रिषोहिंसकादंहसः पापाच्च रक्षताम् । किच दुर्विदत्रा कुत्सितज्ञाना निरृतिः मृत्यु देवता नोस्माकं माईशत ईश्वरी माभूत् । किंच वयं देवानां संबंधि तदसाधारणं अवोरक्ष णमद्यास्मिन्नहनि प्रधानयागदिवसे वृणीमहे प्रार्थयामहे ॥ २ ॥