अना᳚शीर्दाम॒हम᳚स्मि प्रह॒न्ता स᳚त्य॒ध्वृतं᳚ वृजिना॒यन्त᳚मा॒भुम् ॥
पदपाठः (Word-by-word)
अना᳚शीः॑दाम् । अ॒हम् । अ॒स्मि॒ । प्र॒॑ह॒न्ता । स॒त्य॒॑ध्वृत᳚म् । वृ॒जि॒न॒॑यन्त᳚म् । आ॒भुम् ॥
सायणभाष्यम् (Sayana Commentary)
वासुक्रेषु सूक्तेषु बाहुल्येनेन्द्रः स्तूयते इदानीमिन्द्रोवसुक्रं स्तोतुमुद्यतं पुत्रं संबोध्य स्व सामर्थ्यं कथयति । येन विज्ञातदेवतारूपः सन् सुखेन स्तोष्यतीति यद्वा कार्यकारणयोरेक- त्वोपचारात् । आत्मावैपुत्रनामासीतिवचनात् । इन्द्ररूपेणावस्थितोवसुक्रआत्मानं स्तौति क्वचित् क्वचिदिन्द्रं चेति । हे जरितः स्तोतः मे मम सुशोभनः सतादृशः अभिवेगः अभिगमनं म- नसोवृत्तिविशेषः असत् अस्ति विद्यते यत् येनाभिवेगेन सुन्वते मदर्थं सोमाभिषवं कुर्वते यजमानाय यज्वते शिक्षं अभिलषितमर्थं ददामि । किंच अहं अनाशीर्दां आशीरन्यत्र प्रा- र्थना इह सामर्थ्यात्प्रार्थ्यमानं हविरुच्यते तत् मह्यं अददतं जनं यद्वा आशीरिति सोमा- श्रयणं दध्युच्यते तस्यादातारं असोमयाजिनमित्यर्थः । प्रहन्तास्मि प्रकर्षेण हिंसिता भवामि । कीदृशं सत्यध्वृतं सत्यस्य हिंसकं अनृतवादिनं चेत्यर्थः वृजिनायन्तं पापं कर्तुमिच्छन्तं आभुं व्याप्तवन्तम् ॥ १ ॥