श्रवणम्

10.27.23
दे॒वानां॒ माने᳚ प्रथ॒मा अ᳚तिष्ठन्कृ॒न्तत्रा᳚देषा॒मुप᳚रा॒ उदा᳚यन् ।
त्रय᳚स्तपन्ति पृथि॒वीम᳚नू॒पा द्वा बृबू᳚कं वहत॒ः पुरी᳚षम् ॥
▶ पदपाठः (Word-by-word)
दे॒वाना᳚म् । माने᳚ । प्र॒थ॒माः । अ॒ति॒ष्ठ॒न् । कृ॒न्तत्रा᳚त् । ए॒षा॒म् । उप᳚राः । उत् । आ॒य॒न् ।
त्रयः᳚ । त॒प॒न्ति॒ । पृ॒थि॒वीम् । अ॒नू॒पाः । द्वा । बृबू᳚कम् । व॒ह॒तः॒ । पुरी᳚षम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवानां सर्वेषां माने निर्माणे सृष्टिकाले इत्यर्थः जगत्स्थितिहेतुभूतरसानुप्रदानकर्मणि स्रष्टव्यत्वेन प्रथमा अतिष्ठन् इन्द्रादेशादेते पूर्वे स्थिताः कएते मेघाः कुतएतदवगम्यते परस्मिन्पादे तेषामनुकथनात् । उक्तंहि—मेघाएवमाध्यमिकादेवगणाइति । एषामेवं भूतानां मेघानां कृंतत्रात् छेदनात् उपराः मेघनामैतत् तत्रस्था आपउच्यन्ते मेघस्थाआपः उदायन् उत्पन्नाः वृष्टिभावेन भूमौ निपातिताइत्यर्थः । पातितास्वप्सु इन्द्रस्याज्ञाया पर्जन्योवायुरा दित्यइत्येते त्रयोदेवाः पृथिवीं भूमिं तत्रस्थाओषधीरित्यर्थः तपन्ति वृष्टिशीतोष्णैः सन्ता- पयन्ति पाचयन्तीत्यर्थः । कीदृशाः अनूपाः वर्षादीनामानुपूर्व्येण व्याप्तारः प्रभावयितारः प्रक्षेप्तारइत्यर्थः द्वा द्वौ वाय्वादित्यौ पाचितास्वोषधीषु स्थितं पुरीषं सर्वस्य पालयितृ प्रीणयितृ वा बृबूकं उदकं आदित्यमण्डलं प्रति वहत वायुः शोषयन् आदित्योरश्मिभिरा ददानइत्यर्थः ॥ २३ ॥