वृ॒क्षेवृ᳚क्षे॒ निय᳚ता मीमय॒द्गौस्ततो॒ वय॒ः प्र प᳚तान्पूरु॒षादः᳚ ।
अथे॒दं विश्वं॒ भुव᳚नं भयात॒ इन्द्रा᳚य सु॒न्वदृष᳚ये च॒ शिक्ष᳚त् ॥
अथे॒दं विश्वं॒ भुव᳚नं भयात॒ इन्द्रा᳚य सु॒न्वदृष᳚ये च॒ शिक्ष᳚त् ॥
पदपाठः (Word-by-word)
वृ॒क्षे॑वृ᳚क्षे । नि॑य᳚ता । मी॒म॒य॒त् । गौः । ततः᳚ । वयः᳚ । प्र । प॒ता॒न् । पु॒रु॒ष॒॑अदः᳚ ।
अथ᳚ । इ॒दम् । विश्व᳚म् । भुव᳚नम् । भ॒या॒ते॒ । इन्द्रा᳚य । सु॒न्वत् । ऋष᳚ये । च॒ । शिक्ष᳚त् ॥
अथ᳚ । इ॒दम् । विश्व᳚म् । भुव᳚नम् । भ॒या॒ते॒ । इन्द्रा᳚य । सु॒न्वत् । ऋष᳚ये । च॒ । शिक्ष᳚त् ॥
सायणभाष्यम् (Sayana Commentary)
वृक्षेवृक्षे सर्वस्मिन्व्रुक्षमेये धनुषि नियता संबद्धा गौः गोसंबंधिनी स्नायुमती मौर्वी मी पयत् मीमयतिः शब्दकर्मा आकृष्यमाणा सती शब्दं करोति । ततस्तस्माद्धनुषः पुरुषादः शत्रुजनानामत्तारोमारयितारइत्यर्थः वयः पक्षिसदृशाः गन्तारोबाणाः प्रपतान् शत्रून्प्रति प्रपतन्ति । अथ तदानीं इन्द्रायेन्द्रार्थं सुन्वत् सोमयागं कुर्वत् ऋषये च शिक्षत् कर्मणां द्रष्ट्रेऋत्विजे च संपूर्णां दक्षिणां दददपि इदमीदृशं विश्वं समस्तं भुवनं भूतजातं भयाते इन्द्राद्विभेति अन्यत्किमतेत्यर्थः ॥ २२ ॥