श्रवणम्

10.27.16
द॒शा॒नामेकं᳚ कपि॒लं स᳚मा॒नं तं हि᳚न्वन्ति॒ क्रत᳚वे॒ पार्या᳚य ।
गर्भं᳚ मा॒ता सुधि᳚तं व॒क्षणा॒स्ववे᳚नन्तं तु॒षय᳚न्ती बिभर्ति ॥
▶ पदपाठः (Word-by-word)
द॒शा॒नाम् । एक᳚म् । क॒पि॒लम् । स॒मा॒नम् । तम् । हि॒न्व॒न्ति॒ । क्रत᳚वे । पार्या᳚य ।
गर्भ᳚म् । मा॒ता । सु॑धि᳚तम् । व॒क्षणा᳚सु । अवे᳚नन्तम् । तु॒षय᳚न्ती । बि॒भ॒र्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दशानां दशसंख्याकानां पूर्वोक्तानामेवाङ्गिरसां मध्ये एकं मुख्यं कपिलं एतन्नामानं तं प्रसिद्धमृषिं कीदृशं समानं सदृशं केन सामर्थ्यात्प्रजापतिना हिन्वन्ति अवशिष्टाअङ्गि- रसः प्रेरयन्ति । किमर्थं क्रतवे यज्ञादिजगत्प्रवर्तनकर्मणे यद्वा सम्यक् ज्ञानलक्षणप्रज्ञानाय । कीदृशाय पार्याय परिसमापयितव्याय प्रणेतव्याय वा यज्ञादिकर्मणोपदेशनायेत्यर्थः माता प्रकृत्याख्या च वक्षणासु वक्षणाइति नद्यउच्यन्ते ताभिश्चात्रापोलक्ष्यन्ते प्रकृतिस्थासु सू- क्ष्मास्वप्सु सुधितं सुहितं प्रजापतिना स्थापितमित्यर्थः अवेनन्तं वेनतिः कान्तिकर्मा गति निवासमकामयमानं तादृशं प्रजापतेः गर्भं तुषयन्ती तुष्यंती सम्यक् ज्ञानान्युपदेष्टुं योग्यो- यमिति प्रीता सती बिभर्ति प्रजापतेर्नियोगाद्धारयति ॥ १६ ॥