यदीद॒हं यु॒धये᳚ सं॒नया॒न्यदे᳚वयून्त॒न्वा॒३॒᳚ शूशु᳚जानान् ।
अ॒मा ते॒ तुम्रं᳚ वृष॒भं प᳚चानि ती॒व्रं सु॒तं प᳚ञ्चद॒शं नि षि᳚ञ्चम् ॥
अ॒मा ते॒ तुम्रं᳚ वृष॒भं प᳚चानि ती॒व्रं सु॒तं प᳚ञ्चद॒शं नि षि᳚ञ्चम् ॥
पदपाठः (Word-by-word)
यदि᳚ । इत् । अ॒हम् । यु॒धये᳚ । स॒म्॑नया᳚नि । अदे᳚व॑यून् । त॒न्वा᳚ । शूशु᳚जानान् ।
अ॒मा । ते॒ । तुम्र᳚म् । वृ॒ष॒भम् । प॒चा॒नि॒ । ती॒व्रम् । सु॒तम् । प॒ञ्च॒॑द॒शम् । नि । सि॒ञ्च॒म् ॥
अ॒मा । ते॒ । तुम्र᳚म् । वृ॒ष॒भम् । प॒चा॒नि॒ । ती॒व्रम् । सु॒तम् । प॒ञ्च॒॑द॒शम् । नि । सि॒ञ्च॒म् ॥
सायणभाष्यम् (Sayana Commentary)
यद्यदाहमित् अहमेव युधये युद्धार्थं अदेवयून् नदेवान् यष्टुमिच्छतः अयज्वनः संनयानि संगमयानि । कीदृशान् तन्वा स्वशरीरेण शूशुजानान् आत्मंभरित्वात् पुष्टिलक्षणाया दी- प्त्या युक्तान् पुष्टानित्यर्थः तदा हे इन्द्र अहं अमा ऋत्विगादिभिः सहितः ते तुभ्यं तुम्नं प्रेरकं बलिनं पीवानमित्यर्थः वृषभं सेचनसमर्थं पुंपशुं पचानि । किंच तीव्रं मदकरं रसं सुतं अभिषुतं पञ्चदशं प्रतिपत्प्रभृतिपञ्चदशसंख्याकासु तिथिषु शुक्लपक्षेएकोत्तरवृद्याप- र्णानि जायन्ते कृष्णपक्षेतु त्वद्वन्निहीयन्ते एवंभूतत्वात् पञ्चदशः सोमउच्यते तं यद्वा त्रिवृ- त्पञ्चदशस्तोमोपेतं माध्यंदिनसवनिकमित्यर्थः निषिंचं दशापवित्रेद्रोणकलशॆ चमसपात्रे अग्नौ च सिंचामि प्रक्षिपामीत्यर्थः ॥ २ ॥