श्रवणम्

10.27.21
अ॒यं यो वज्र᳚ः पुरु॒धा विवृ᳚त्तो॒॑वः सूर्य᳚स्य बृह॒तः पुरी᳚षात् ।
श्रव॒ इदे॒ना प॒रो अ॒न्यद᳚स्ति॒ तद᳚व्य॒थी ज᳚रि॒माण᳚स्तरन्ति ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । यः । वज्रः᳚ । पु॒रु॒धा । वि॑वृ᳚त्तः । अ॒वः । सूर्य᳚स्य । बृ॒ह॒तः । पुरी᳚षात् ।
श्रवः᳚ । इत् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । तत् । अ॒व्य॒थी । ज॒रि॒माणः᳚ । त॒र॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयं वज्रइन्द्रस्य स्वभूतः सूर्यस्यादित्यस्य बृहतोमहतः पुरीषात् पूरकात् मण्डलात् अवः अवस्तात् अधोभागे स्थितेषु पुरुधा बहुप्रकारेण विवृत्तः वृष्ट्यर्थं प्रवृत्तः पतितः इच्छब्दोप्यर्थे तच्छब्दश्रुतेर्यच्छब्दोध्याहार्यः परः परस्तात् अन्तरिक्षलोकस्योपरिस्थिते सूर्यमण्डले स्थितं एना एनत् श्रवइत्यन्ननाम तद्देतुत्वात् उदकं श्रवइत्युच्यते यद्यप्युदकं मेघोदरगतादुदकादन्यदप्यस्ति अव्यथी व्यथारहिताः जरिमाणः स्तोतारोमरुदादयः तत्ता- दृशमुदकं तरन्ति अन्तरिक्षलोकं प्रत्यबतारयन्ति ॥ २१ ॥