श्रवणम्

10.27.11
यस्या᳚न॒क्षा दु᳚हि॒ता जात्वास॒ कस्तां वि॒द्वा{4} अ॒भि म᳚न्याते अ॒न्धाम् ।
क॒त॒रो मे॒निं प्रति॒ तं मु᳚चाते॒ य ईं॒ वहा᳚ते॒ य ईं᳚ वा वरे॒यात् ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । अ॒न॒क्षा । दु॒हि॒ता । जातु᳚ । आस᳚ । कः । ताम् । वि॒द्वान् । अ॒भि । म॒न्या॒ते॒ । अ॒न्धाम् ।
क॒त॒रः । मे॒निम् । प्रति᳚ । तम् । मु॒चा॒ते॒ । यः । ई॒म् । वहा᳚ते । यः । ई॒म् । वा॒ । व॒रे॒॑यात् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येन्द्रस्य मम कारणरूपेणावस्थितस्य अनक्षा अक्षिवर्जिता दर्शनहीना अचेतनेत्यर्थः दुहिता प्रकृत्याख्या जातु कदाचित् आस असतेर्गत्यर्थस्य लिटि रूपं सामर्थ्यत् महाप्र- लये मय्येव लीना सती सर्वत्र वर्तते । तां प्रकृतिं विद्वान् मय्येव लीनांजानन् मत्तोन्यो- देवः कोभवति न कोपीत्यर्थः । अपिच अंधां दर्शनहीनामचेतनां तां अभिमन्याते आत्म- न्याश्रयप्रदानेन कोदेवोभिपूजयति यद्वा क्षीरोदकवत् घटाकाशवच्चमया सहैकीभूतां तां आभिमुख्येन कोजानाति अहमेव सर्वज्ञः स्वात्मन्याश्रयप्रदानेनाभिपूजयामि मया सहैकी भूतां तां तत्वतोहमेव जानामि नान्यइति । किञ्च कतरोदेवः मेनिं वज्रं तं प्रसिद्धं वृत्रादिशत्रुं प्रतिमुचाते मुंचति स्वयमेव प्रश्नमुत्थाप्येदानीं प्रतिब्रूते योदेवईमेनं शत्रुं वहा- ते वहति अपिवा यईमेनं वरेयात् वारयितुमिच्छति सचाहमेव नान्योमत्सदृशोस्तीत्यर्थः ॥ ११ ॥