द्वे प॒वस्ते॒ परि॒ तं न भू᳚तो॒ यो अ॒स्य पा॒रे रज᳚सो वि॒वेष᳚ ॥
पदपाठः (Word-by-word)
द्वे इति᳚ । प॒वस्ते॒ इति᳚ । परि᳚ । तम् । न । भू॒तः॒ । यः । अ॒स्य । पा॒रे । रज᳚सः । वि॒वेष᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अत्र मध्यमपुरुषेणेन्द्रस्योच्यमानत्वात् वसुक्रइन्द्रं स्तौति । उइत्यवधारणे । हे इन्द्र अ- भूः त्वमेव प्रादुर्भवसि औक्षीः कालेकाले त्वमेव पृथिवीं सिञ्चसि नान्यइत्यर्थः आनडि- त्यादौ सर्वत्र परोक्षनिर्देशे प्रत्यक्षीकरणार्थं मध्यमपुरुषेण प्रकृतत्वादेकवाक्यतायै युष्मच्छ- ब्दसमानार्थोभवच्छब्दोध्याहर्तव्यः विइति वैविध्ये । उ इति वार्थे । आयुर्जीवितमुच्यते । इन्द्रोभवान्विविधमायुश्च आनट् व्याप्नोति आभूतसंप्लवाज्जीवतीत्यर्थः । किंच पूर्वः पुरात- नोभवानिन्द्रः नु क्षिप्रं दर्षत् द्दृविदारणे सिब्बहुलं लेटि वज्रेण शत्रून् विदारयति अप- रोन्यः शत्रुर्नुदर्षत् नु इति निषेधार्थेभवन्तमिन्द्रं नविदारयति भवानेव सर्वं शजुजातं हिन स्तीत्यर्थः । अपिच योभवानिन्द्रः अस्येदृशस्य रजसोलोकस्य त्रैलोक्यस्येत्यर्थः पारे परतः परमसूक्ष्मवायुरूपेण सृष्टिकारणात्मना स्थित्वेत्यर्थः विवेष सर्वतोव्याप्नोति तमिन्द्रं द्वेइति सामर्थ्यात् द्यावापृथिव्यौ न परिभूतः नपरिभवतः अभिभवितुं न शक्नुतइत्यर्थः । कीदृश्यौ पवस्ते पवतिर्गतिकर्म अस्मादौणादिकोस्तप्रत्ययः अतः अजाद्यतष्टाबिति टापि कृते प्रथ- माद्विवचने चैतद्रुपं भवति महत्त्वेन सर्वस्याभिभवनाय गन्त्र्यौ यद्वा सर्वस्य प्रकर्षेणा- च्छादयित्र्यौ रेफलोपश्छान्दसः ॥ ७ ॥