नाहं तं वे᳚द॒ य इति॒ ब्रवी॒त्यदे᳚वयून्त्स॒मर᳚णे जघ॒न्वान् ।
य॒दावाख्य᳚त्स॒मर᳚ण॒मृघा᳚व॒दादिद्ध᳚ मे वृष॒भा प्र ब्रु᳚वन्ति ॥
य॒दावाख्य᳚त्स॒मर᳚ण॒मृघा᳚व॒दादिद्ध᳚ मे वृष॒भा प्र ब्रु᳚वन्ति ॥
पदपाठः (Word-by-word)
न । अ॒हम् । तम् । वे॒द॒ । यः । इति᳚ । ब्रवी᳚ति । अदे᳚व॑यून् । स॒म्॑अर᳚णे । ज॒घ॒न्वान् ।
य॒दा । अ॒व॒॑अख्य᳚त् । स॒म्॑अर᳚णम् । ऋघा᳚वत् । आत् । इत् । ह॒ । मे॒ । वृ॒ष॒भा । प्र । ब्रु॒व॒न्ति॒ ॥
य॒दा । अ॒व॒॑अख्य᳚त् । स॒म्॑अर᳚णम् । ऋघा᳚वत् । आत् । इत् । ह॒ । मे॒ । वृ॒ष॒भा । प्र । ब्रु॒व॒न्ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
योजनः अदेवयून् देवान् कामयमानान् देवद्विषोराक्षसादीन् समरणे संग्रामे जघन्वान् अहं हतवानिति ब्रवीति वदति तं तादृशं मद्यतिरिक्तं जनं अहं न वेद न जानामि । मत्तोन्यः संग्रामे शत्रूणां हन्ता नास्तीत्यर्थः । किञ्च यदा यस्मिन् काले समरणं संग्रामं अवाख्यत् अवाकृतं न्यक्कृतमहं पश्यामि । कीदृशं ऋघावत् ऋघावन्तं परप्सरं हिंसायुक्तं अत्यंतक्रूरमित्यर्थः । आत् तदानीं मे मम स्वभूतानि वृशभा वृषभकर्माणि दर्पतोवृषभस्ये व विक्रांतकर्माणि प्रब्रुवन्ति विद्वज्जनाइतिशॆषः इद्धेतीमौ पदपूरणौ ॥ ३ ॥